॥ Shastuh Dhyanashtakam Lyrics in Sanskrit ॥ शास्तुः ध्यानाष्टकं श्रीगणेशाय नमः । नमामि धर्मशास्तारं योगपीठस्थितं विभुम् । प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे ॥ १॥ आश्यामकोमलविशालतनुं विचित्र- वासो वसानमरुणोत्पलवामहस्तम् । उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २॥ हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः । विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः ॥ ३॥ पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम् । श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च । शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपं वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम् ॥ ४॥ स्निग्धारालविसारिकुन्तलभरं सिंहासनाध्यासिनं स्फूर्जत्पत्रसुकॢप्तकुण्डलमथेष्विष्वासभृद्दोर्द्वयम् । नीलक्षौमवसं नवीनजलदश्यामं प्रभासत्यक- स्वायत्पार्श्वयुगं सुरक्तसकलाकल्पं स्मरेदार्यकम् ॥ ५॥ कोदण्डं सशरं भुजेन भुजगेन्द्राभोगभासा वहन् वामेन क्षुरिकां विपक्षदलने पक्षेण दक्षेण च । कान्त्या निर्जितनीरदः पुरभिदः क्रीडत्किराताकृतेः पुत्रोऽस्माकमनल्पनिर्मलयशाः निर्मातु शर्मानिशम् ॥ ६॥ काळाम्भोदकलाभकोमलतन...
Sansaar Lyrics We provide Chalisa Sangrah, Aarti Sangrah, Stuti Sangrah, Astakam Sangrah, Mantra Sangrah, All Bhajan Lyrics in Hindi, English and indian many languages. Hanuman Chalisa, Durga Chalisa, Shiv Chalisa, Shani Chalisa, Ganesh Chalisa, Vishnu Chalisa and More Chalisa.