॥ Lord Siva Gitimala and Ashtapadi Sanskrit Lyrics ॥ ॥ प्रथमः सर्गः ॥ ध्यानश्लोकाः – सकलविघ्ननिवर्तक शङ्करप्रियसुत प्रणतार्तिहर प्रभो ॥ मम हृदम्बुजमध्यलसन्मणीरचितमण्डपवासरतो भव ॥ १ ॥ विधिवदनसरोजावासमाध्वीकधारा विविधनिगमवृन्दस्तूयमानापदाना । समसमयविराजच्चन्द्रकोटिप्रकाशा मम वदनसरोजे शारदा सन्निधत्ताम् ॥ २ ॥ यदनुभवसुधोर्मीमाधुरीपारवश्यं विशदयति मुनीनात्मनस्ताण्डवेन । कनकसदसि रम्ये साक्षिणीवीक्ष्यमाणः प्रदिशतु स सुखं मे सोमरेखावतंसः ॥ ३ ॥ शर्वाणि पर्वतकुमारि शरण्यपादे निर्वापयास्मदघसन्ततिमन्तरायम् । इच्छामि पङ्गुरिव गाङ्गजलावगाह- मिच्छामिमां कलयितुं शिवगीतिमालाम् ॥ ४ ॥ शिवचरणसरोजध्यानयोगामृताब्धौ जलविहरणवाञ्छासङ्गतं यस्य चेतः । निखिलदुरितमभङ्गव्यापृतं वा मनोज्ञं परशिवचरिताख्यं गानमाकर्णनीयम् ॥ ५ ॥ ॥ प्रथमाष्टपदी ॥ मालवीरागेण आदितालेन गीयते (प्रलयपयोधिजले इतिवत्) कनकसभासदने वदने दरहासं नटसि विधाय सुधाकरभासं शङ्कर धृततापसरूप जय भवतापहर ॥ १ ॥ जलधिमथनसमये गरलानलशैलं वहसि गलस्थमुदित्वरकीलं शङ्कर धृतनीलगलाख्य जय भवतापहर ॥ २ ॥ विधुरविरथचरणे निवसन्नवनिरथे पुरमिषुणा हृतवानितयोधे शङ्कर व...
Sansaar Lyrics We provide Chalisa Sangrah, Aarti Sangrah, Stuti Sangrah, Astakam Sangrah, Mantra Sangrah, All Bhajan Lyrics in Hindi, English and indian many languages. Hanuman Chalisa, Durga Chalisa, Shiv Chalisa, Shani Chalisa, Ganesh Chalisa, Vishnu Chalisa and More Chalisa.