Bhuvaneshwari Shatanama Stotram Lyrics in Hindi || श्री भुवनेश्वरी शतनाम स्तोत्रम् हिंदी || कैलासशिखरे रम्ये नानारत्नोपशोभिते । नरनारीहितार्थाय शिवं पप्रच्छ पार्वती ॥ १ ॥ देव्युवाच भुवनेशीमहाविद्यानाम्नामष्टोत्तरं शतम् । कथयस्व महादेव यद्यहं तव वल्लभा ॥ २ ॥ ईश्वर उवाच शृणु देवि महाभागे स्तवराजमिदं शुभम् । सहस्रनाम्नामधिकं सिद्धिदं मोक्षहेतुकम् ॥ ३ ॥ शुचिभिः प्रातरुत्थाय पठितव्यं समाहितैः । त्रिकालं श्रद्धया युक्तैः सर्वकामफलप्रदम् ॥ ४ ॥ अस्य श्रीभुवनेश्वर्यष्टोत्तरशतनामस्तोत्रस्य शक्तिरृषिः गायत्री छन्दःभुवनेश्वरी देवता चतुर्वर्गसाधने जपे विनियोगः । ॐ महामाया महाविद्या महाभोगा महोत्कटा । माहेश्वरी कुमारी च ब्रह्माणी ब्रह्मरूपिणी ॥ ५ ॥ वागीश्वरी योगरूपा योगिनीकोटिसेविता । जया च विजया चैव कौमारी सर्वमङ्गला ॥ ६ ॥ हिङ्गुला च विलासी च ज्वालिनी ज्वालरूपिणी । ईश्वरी क्रूरसंहारी कुलमार्गप्रदायिनी ॥ ७ ॥ वैष्णवी सुभगाकारा सुकुल्या कुलपूजिता । वामाङ्गा वामचारा च वामदेवप्रिया तथा ॥ ८ ॥ डाकिनी योगिनीरूपा भूतेशी भूतनायिका । पद्मावती पद्मनेत्रा प्रबुद्धा च सरस्वती ॥ ९ ॥ भूचरी खेचरी माय...
Sansaar Lyrics We provide Chalisa Sangrah, Aarti Sangrah, Stuti Sangrah, Astakam Sangrah, Mantra Sangrah, All Bhajan Lyrics in Hindi, English and indian many languages. Hanuman Chalisa, Durga Chalisa, Shiv Chalisa, Shani Chalisa, Ganesh Chalisa, Vishnu Chalisa and More Chalisa.