ad

Hanuman Chalisa Lyrics in Hindi
Batuk Bhairav Chalisa Lyrics in Hindi
Hanuman Chalisa Lyrics in Telugu
Shiva Kalpataru Lyrics In Hindi
Ganesh Chalisa Lyrics in Bengali - Sansaar Lyrics
Maa Gayatri Chalisa Lyrics in Kannada
Durga Chalisa Lyrics in Telugu
Ganpati Nirop Aarti Lyrics in Marathi| Sansaar Lyrics
Durga Chalisa Lyrics in Tamil | Sansaar Lyrics |
Hanuman Chalisa Lyrics In Punjabi

Comments

Recent

Keep Traveling

Shiva Gitimala-Shiva Ashtapadi in Sanskrit

॥ Lord Siva Gitimala and Ashtapadi Sanskrit Lyrics ॥

॥ प्रथमः सर्गः ॥
ध्यानश्लोकाः –
सकलविघ्ननिवर्तक शङ्करप्रियसुत प्रणतार्तिहर प्रभो ॥

मम हृदम्बुजमध्यलसन्मणीरचितमण्डपवासरतो भव ॥ १ ॥

विधिवदनसरोजावासमाध्वीकधारा
विविधनिगमवृन्दस्तूयमानापदाना ।
समसमयविराजच्चन्द्रकोटिप्रकाशा
मम वदनसरोजे शारदा सन्निधत्ताम् ॥ २ ॥

यदनुभवसुधोर्मीमाधुरीपारवश्यं
विशदयति मुनीनात्मनस्ताण्डवेन ।
कनकसदसि रम्ये साक्षिणीवीक्ष्यमाणः
प्रदिशतु स सुखं मे सोमरेखावतंसः ॥ ३ ॥

शर्वाणि पर्वतकुमारि शरण्यपादे
निर्वापयास्मदघसन्ततिमन्तरायम् ।
इच्छामि पङ्गुरिव गाङ्गजलावगाह-
मिच्छामिमां कलयितुं शिवगीतिमालाम् ॥ ४ ॥

शिवचरणसरोजध्यानयोगामृताब्धौ
जलविहरणवाञ्छासङ्गतं यस्य चेतः ।
निखिलदुरितमभङ्गव्यापृतं वा मनोज्ञं
परशिवचरिताख्यं गानमाकर्णनीयम् ॥ ५ ॥

॥ प्रथमाष्टपदी ॥

मालवीरागेण आदितालेन गीयते
(प्रलयपयोधिजले इतिवत्)

कनकसभासदने वदने दरहासं
नटसि विधाय सुधाकरभासं
शङ्कर धृततापसरूप जय भवतापहर ॥ १ ॥

जलधिमथनसमये गरलानलशैलं
वहसि गलस्थमुदित्वरकीलं
शङ्कर धृतनीलगलाख्य जय भवतापहर ॥ २ ॥

विधुरविरथचरणे निवसन्नवनिरथे
पुरमिषुणा हृतवानितयोधे
शङ्कर वर वीरमहेश जय भवतापहर ॥ ३ ॥

कुसुमशरासकरं पुरतो विचरन्तं
गिरिश निहिंसितवानचिरं तं
शङ्कर मदनारिपदाख्य जय भवतापहर ॥ ४ ॥

वटतरुतलमहिते निवसन्मणिपीठे
दिशसि परात्मकलामतिगाढे
शङ्कर धृतमौन गभीर जय भवतापहर ॥ ५ ॥

जलनिधिसेतुतटे जनपावनयोगे
रघुकुलतिलकयशः प्रविभागे
शङ्कर रघुराममहेश जय भवतापहर ॥ ६ ॥

तनु भृदवनकृते वरकाशीनगरे
तारकमुपदिशसि स्थलसारे
शङ्कर शिव विश्वमहेश जय भवतापहर ॥ ७ ॥

निगमरसालतले निरवधिबोधघन
श्रीकामक्षिकुचकलशाङ्कन
शङ्कर सहकारमहेश जय भवतापहर ॥ ८ ॥

कच्छपतनुहरिणा निस्तुलभक्तियुजा
सन्ततपूजितचरणसरोज
शङ्कर शिव कच्छप लिङ्ग जय भवतापहर ॥ ९ ॥

शङ्करवरगुरुणा परिपूजितपाद
काञ्चिपुरे विवृताखिलवेद
शङ्कर विधुमौलिमहेश जय भवतापहर ॥ १० ॥

श्रीविधुमौलियतेरिदमुदितमुदारं
श्रृणु करुणाभरणाखिलसारं
शङ्करारुणशैलमहेश जय भवतापहर ॥ ११ ॥

श्लोकः
कनकसभानटाय हरिनीलगळाय नम-
स्त्रिपुरहराय माररिपवे मुनिमोहभिदे ।
रघुकृतसेतवे विमलकाशिजुषे भवते
निगमरसाल कूर्महरिपूजित चन्द्रधर ॥ ॥ ६ ॥

पापं वारयते परं घटयते कालं पराकुर्वते
मोहं दूरयते मदं शमयते मत्तासुरान् हिंसते ।
मारं मारयते महामुनिगणानानन्दिनः कुर्वते
पार्वत्या सहिताय सर्वनिधये शर्वाय तुभ्यं नमः ॥ ७ ॥

॥ द्वितीयाष्टपदी ॥

भैरवीरागेण त्रिपुटतालेन गीयते
(श्रितकमलाकुच इतिवत्)
कलिहरचरितविभूषण श्रुतिभाषण
करतलविलसितशूल जय भवतापहर ॥ १ ॥

दिनमणिनियुतविभासुर विजितासुर
नलिननयनकृतपूज जय भवतापहर ॥ २ ॥

निर्जितकुसुमशरासन पुरशासन
निटिलतिलकशिखिकील जय भवतापहर ॥ ३ ॥

पदयुगविनताखण्डल फणिकुण्डल
त्रिभुवनपावन पाद जय भवतापहर ॥ ४ ॥

अन्धकदानवदारण भवतारण
स्मरतनुभसितविलेप जय भवतापहर ॥ ५ ॥

हिमकरशकलवतंसक फणिहंसक
गगनधुनीधृतशील जय भवतापहर ॥ ६ ॥

परमतपोधनभावित सुरसेवित
निखिलभुवनजनपाल जय भवतापहर ॥ ७ ॥

करिमुखशरभवनन्दन कृतवन्दन
श्रृणुशशिधरयतिगीतं जय भवतापहर ॥ ८ ॥

श्लोकः
तुहिनगिरिकुमारी तुङ्गवक्षोजकुम्भ-
स्फुटदृढपरिरम्भश्लिष्ट दिव्याङ्गरागम् ।
उदितमदनखेदस्वेदमंसान्तरं मां
अवतु परशुपाणेर्व्यक्त गाढानुरागम् ॥ ८ ॥

वासन्तिकाकुसुमकोमलदर्शनीयैः
अङ्गैरनङ्गविहितज्वरपारवश्यात् ।
कम्पातटोपवनसीमनि विभ्रमन्तीं
गौरिमिदं सरसमाह सखी रहस्यम् ॥ ९ ॥

॥ तृतीयाष्टपदी ॥

वसन्तरागेण आदितालेन गीयते
(ललितलवङ्गलता इतिवत्)
विकसदमलकुसुमानुसमागमशीतलमृदुलसमीरे
अतिकुलकलरवसम्भृतघनमदपरभृतघोषगभीरे
विलसति सुरतरुसदसि निशान्ते
वरयुवतिजनमोहनतनुरिह शुभदति विततवसन्ते विलसति ॥ १ ॥

कुसुमशरासनशबरनिषूदितकुपितवधूधृतमाने
धनरसकुङ्कुमपङ्कविलेपनविटजनकुतुकविधाने विलसति ॥ २ ॥

कुसुमितबालरसालमनोहरकिसलयमदनकृपाणे
मधुकरमिथुनपरस्परमधुरसपाननियोगधुरीणे विलसति ॥ ३ ॥

मदनमहीपतिशुभकरमन्त्रजपायितमधुकरघोषे
अविरलकुसुममरन्दकृताभिनिषेचनतरुमुनिपोषे विलसति ॥ ४ ॥

मदननिदेशनिवृत्तकलेबरमर्दनमलयसमीरे
तुषितमधुव्रतसञ्चलदतिथिसुपूजनमधुरसपूरे विलसति ॥ ५ ॥

सुचिरकृतव्रतमौनवनप्रियमुनिजनवागनुकूले
ललितलतागृहविहृतिकृतश्रमयुवतिसुखानिलशीले विलसति ॥ ६ ॥

विषमशरावनिपालरथायितमृदुलसमीरणजाले
विरहिजनाशयमोहनभसितपरागविजृम्भणकाले विलसति ॥ ७ ॥

श्रीशिवपूजनयतमति चन्द्रशिखामणियतिवरगीतं
श्रीशिवचरणयुगस्मृतिसाधकमुदयतु वन्यवसन्तं विलसति ॥ ८ ॥

श्लोकः
विकचकमलकम्पाशैवलिन्यास्तरङ्गैः
अविरलपरिरम्भः सम्भ्रमन् मञ्जरीणाम् ।
परिसररसरागैर्व्याप्तगात्रानुलेपो
विचरति कितवोऽयं मन्दमन्दं समीरः ॥ ९ ॥

॥ द्वितीयः सर्गः ॥
श्लोकः
प्रगल्भतरभामिनी शिवचरित्र गानामृत-
प्रभूतनवमञ्जरीसुरभिगन्धिमन्दानिले ।
रसालतरुमूलगस्फुरितमाधवी मण्डपे
महेशमुपदर्शयन्त्यसकृदाह गौरीमसौ ॥

॥ चतुर्थाष्टपदी ॥

रामक्रियारागेण आदितालेन गीयते
(चन्दनचर्चित इतिवत्)
अविरल कुङ्कुमपङ्ककरम्बितमृगमदचन्द्रविलेपं
निटिल विशेषकभासुरवह्निविलोचन कृतपुरतापं
शशिमुखि शैलवधूतनये विलोकय हरमथ केलिमये शशिमुखि ॥ १ ॥

युवतिजनाशयमदनशरायितशुभतरनयन विलासं
भुवनविजृम्भितघनतरतिमिरनिषूदननिजतनु भासं शशिमुखि ॥ २ ॥

पाणि सरोजमृगीपरिशङ्कितबालतृणालिगलाभं
यौवतहृदयविदारणपटुतरदरहसितामितशोभं शशिमुखि ॥ ३ ॥

चरणसरोजलसन्मणिनूपुरघोषविवृतपदजातं
गगनधुनीसमतनुरुचिसंहतिकारितभुवनविभातं शशिमुखि ॥ ४ ॥

निखिलवधूजनहृदयसमाहृतिपटुतरमोहनरूपं
मुनिवरनिकरविमुक्तिविधायकबोधविभावनदीपं शशिमुखि ॥ ५ ॥

विकचसरोरुहलोचनसकृदवलोकनकृतशुभजातं
भुजगशिरोमणिशोणरुचा परिभीतमृगीसमुपेतं शशिमुखि ॥ ६ ॥

रजतमहीधरसदृशमहावृषदृष्टपुरोवनिभागं
सनकसनन्दनमुनिपरिशोभितदक्षिणतदितरभागं शशिमुखि ॥ ७ ॥

श्रीशिवपरिचरणव्रतचन्द्रशिखामणि नियमधनेन
शिवचरितं शुभगीतमिदं कृतमुदयतु बोधघनेन शशिमुखि ॥ ८ ॥

श्लोकः
मदनकदनशान्त्यै फुल्लमल्ली प्रसूनैः
विरचितवरशय्यामाप्नुवन्निन्दुमौलिः ।
मृदुमलयसमीरं मन्यमानः स्फुलिङ्गान्
कलयति हृदये त्वामन्वहं शैल कन्ये ॥ १२ ॥

इति सहचरीवाणीमाकर्ण्य सापि सुधाझरीं
अचलदुहिता नेतुः श्रुत्वाभिरूप्यगुणोदयम् ।
विरहजनितामार्तिं दूरीचकार हृदि स्थितां
दयितनिहितप्रेमा कामं जगाद मिथः सखीम् ॥ १३ ॥

॥ पञ्चमाष्टपदी ॥

तोडिरागेण चापुतालेन गीयते
(सञ्चरदधर इतिवत्)
जलरुहशिखरविराजितहिमकरशङ्कितकरनखराभं
रुचिररदनकिरणामरसरिदिव शोणनदाधर शोभं
सेवे निगमरसालनिवासं – युवतिमनोहरविविधविलासं सेवे ॥ १ ॥

शुभतनुसौरभलोभविभूषणकैतवमहित भुजङ्गं
मुकुटविराजितहिमकरशकलविनिर्गलदमृतसिताङ्गं सेवे ॥ २ ॥

मकुटपरिभ्रमदमरधुनीनखविक्षतशङ्कित चन्द्रं
उरसि विलेपितमलयजपङ्कविमर्दितशुभतरचन्द्रं सेवे ॥ ३ ॥

पन्नगकर्णविभूषणमौलिगमणिरुचि शोणकपोलं
अगणितसरसिजसम्भवमौलिकपालनिवेदित कालं सेवे ॥ ४ ॥

हरिदनुपालसुरेशपदोन्नतिमुपनमतो वितरन्तं
अनवधिमहिमचिरन्तनमुनिहृदयेषु सदा विहरन्तं सेवे ॥ ५ ॥

नारदपर्वतवरमुनिकिन्नरसन्नुत वैभव जातं
अन्धकसुररिपुगन्धसिन्धुर विभङ्गमृगादिपरीतं सेवे ॥ ६ ॥

विषयविरतविमलाशयकोशमहाधनचरणसरोजं
घनतरनिजतनुमञ्जुलतापरि निर्जितनियुत मनोजं सेवे ॥ ७ ॥

श्रीशिव भजन मनोरथचन्द्रशिखामणियतिवरगीतं
श्रोतुमुदञ्चितकौतुकमविरतममरवधूपरि गीतं सेवे ॥ ८ ॥

श्लोकः
सहचरि मुखं चेतः प्रातः प्रफुल्लसरोरुह-
प्रतिममनघं कान्तं कान्तस्य चन्द्रशिखामणेः ।
स्मरति परितोदृष्टिस्तुष्टा तदाकृतिमाधुरी-
गतिविषयिणी वाणी तस्य ब्रवीति गुणोदयम् ॥ १४ ॥

॥ षष्टाष्टपदी ॥

काम्भोजिरागेण त्रिपुटतालेन गीयते
(निभृतनिकुञ्ज इतिवत्)
निखिलचराचरनिर्मितिकौशलभरितचरित्र विलोलं
ललितरसालनिबद्धलतागृहविहरण कौतुक शीलं
कलये कालमथनमधीशं
घटय मया सह घनतरकुचपरिरम्भण केलिकृताशं कलये ॥ १ ॥

कुवलयसौरभवदनसमीरणवसितनिखिलदिगन्तं
चरणसरोजविलोकनतोऽखिलतापरुजं शमयन्तं कलये ॥ २ ॥

पटुतरचाटुवचोमृतशिशिरनिवारितमनसिजतापं
तरुणवनप्रियभाषणया सह सादरविहितसुलापं कलये ॥ ३ ॥

चलितदृगञ्चलमसमशरानिव युवतिजने निदधानं
रहसि रसालगृहं गतया सह सरसविहारविधानं कलये ॥ ४ ॥

दरहसितद्युतिचन्द्रिकया गतखेद विकारचकोरं
लसदरुणाधरवदनवशीकृतयुवतिजनाशयचोरं कलये ॥ ५ ॥

मलयजपङ्कविलेपनमुरुतरकुचयुगमाकलयन्तं
कृतकरुषो मम सुतनुलतापरिरम्भणकेळिमयन्तं कलये ॥ ६ ॥

सुरतरुकुसुमसुमालिकया परिमण्डितचिकुरनिकायं
अलघुपुलककटसीमनि मृगमदपत्रविलेखविधेयं कलये ॥ ७ ॥

श्रीशिवसेवनचन्द्रशिखामणियतिवरगीतमुदारं
सुखयतु शैलजया कथितं शिवचरितविशेषितसारं कलये ॥ ८ ॥

श्लोकः
लीलाप्रसूनशरपाशसृणिप्रकाण्ड-
पुण्ड्रेक्षुभासिकरपल्लवमम्बुजाक्षम् ।
आलोक्य सस्मितमुखेन्दुकमिन्दुमौलिं
उत्कण्ठते हृदयमीक्षितुमेव भूयः ॥ १५ ॥

॥ तृतीयः सर्गः ॥
श्लोकः
इति बहु कथयन्तीमालिमालोक्य बालां
अलघुविरहदैन्यामद्रिजामीक्षमाणः ।
सपदि मदनखिन्नः सोमरेखावतंसः
किमपि विरहशान्त्यै चिन्तयामास धीरः ॥ १६ ॥

॥ सप्तमाष्टपदी ॥

भूपालरागेण त्रिपुटतालेन गीयते
(मामियं चलिता इतिवत्)
श्लोकः
लीलया कलहे गता कपटक्रुधा वनितेयं
मानिनी मदनेन मामपि सन्तनोति विधेयम् ॥

शिव शिव कुलाचलसुता ॥ १ ॥

तापितो मदनज्वरेण तनूनपादधिकेन
यापयमि कतं नु तद्विरहं क्षणं कुतुकेन शिव शिव ॥ २ ॥

यत्समागमसम्मदेन सुखी चिरं विहरामि ।
यद्वियोगरुजा न जातु मनोहितं वितनोमि शिव शिव ॥ ३ ॥

लीलया कुपिता यदा मयि तामथानुचरामि ।
भूयसा समयेन तामनुनीय संविहरामि शिव शिव ॥ ४ ॥

अर्पितं शिरसि क्रुधा मम हा यदङ्घ्रिसरोजं
पाणिना परिपूजितं बत जृम्भमाणमनोजं शिव शिव ॥ ५ ॥

दृश्यसे पुरतोऽपि गौरि न दृश्यसे चपलेव ।
नापराधकथा मयि प्रणतं जनं कृपयाव शिव शिव ॥ ६ ॥

नीलनीरदवेणि किं तव मत्कृतेऽनुनयेन ।
सन्निधेहि न गन्तुमर्हसि मादृशे दयनेन शिव शिव ॥ ७ ॥

वर्णितं शिवदासचन्द्रशिखामणिश्रमणेन ।
वृत्तमेतदुदेतु सन्ततं ईशितुः प्रवणेन शिव शिव ॥ ८ ॥

श्लोकः
भुवनविजयी विक्रान्तेषु त्वमेव न चेतरः
तव न कृपणे युक्तं मादृग्विधे शरवर्षणम् ।
मदन यदि ते वैरं निर्यातु भो नियतं पुरा
विहितमहितो नाहं नित्यं तवास्मि निदेशगः ॥ १७ ॥

मधुकरमयज्याघोषेण प्रकम्पयसे मनः
परभृतवधूगाने कर्णज्वरं तनुषेतराम् ।
कुसुमरजसां बृन्दैरुत्मादयस्यचिरादितः
स्मर विजयसे विश्वं चित्रीयते कृतिरीदृशी ॥ १८ ॥

चलितललितापाङ्ग श्रेणीप्रसारणकैतवात्
दरविकसितस्वच्छच्छायासितोत्पलवर्षणैः ।
विरहशिखिना दूनं दीनं न मामभिरक्षितुं
यदि न मनुषे जानासि त्वं मदीयदशां ततः ॥ १९ ॥

शुभदति विचरावः शुभ्रकम्पातटिन्यास्तट
भुवि रमणीयोद्यानकेळिं भजावः ।
प्रतिमुहुरिति चिन्ताविह्वलः शैलकन्यामभि
शुभतरवादः पातु चन्द्रार्धमौलेः ॥ २० ॥

॥ चतुर्थः सर्गः ॥
श्लोकः
कम्पातीरप्रचुररुचिरोद्यानविद्योतमान-
श्रीमाकन्दद्रुमपरिसर माधवीक्लृप्तशालाम् ।
अध्यासीनं रहसि विरहश्रान्तमश्रान्तकेलिं
वाचं गौरीप्रियसहचरी प्राह चन्द्रावतंसम् ॥ २१ ॥

॥ अष्टमाष्टपदी ॥

सौराष्ट्ररागेण आदितालेन गीयते
(निन्दति चन्दनं इतिवत्)
या हि पुरा हर कुतुकवती परिहासकथासु विरागिणी
असितकुटिल चिकुरावळि मण्डनशुभतरदाम निरोधिनी
शङ्कर शरणमुपैति शिवामतिहन्ति स शम्बरवैरी
शिव विरहकृशा तव गौरी ॥ १ ॥

कुसुम शयनमुपगम्य सपदि मदनशरविसरपरिदूना
मलयजरजसि महनलततिमिव कलयति मतिमतिदीना
शिव विरहकृशा तव गौरी ॥ २ ॥

उरसिरुचिरमणिहारलतागतबलभिदुपलततिनीला
मञ्जुवचनगृहपञ्जरशुकपरिभाषणपरिहृतलीला
शिव विरहकृशा तव गौरी ॥ ३ ॥

भृशकृतभवदनुभावनयेक्षित भवति विहितपरिवादा
सपदि विहित विरहानुगमनादनुसम्भृतहृदय विषादा
शिव विरहकृशा तव गौरी ॥ ४ ॥

बालहरिणपरिलीढपदा तदनादरविगत विनोदा
उन्मदपरभृतविरुताकर्णनकर्णशल्यकृतबाधा
शिव विरहकृशा तव गौरी ॥ ५ ॥

कोकमिथुनबहुकेळिविलोकनजृम्भितमदन विकारा
शङ्करहिमकरशेखर पालय मामिति वदति न धीरा
शिव विरहकृशा तव गौरी ॥ ६ ॥

दूषितमृगमदरुचिरविशेषक निटिलभसिकृतरेखा
अतनुतनुज्वरकारितया परिवर्जितचन्द्रमयूखा
शिव विरहकृशा तव गौरी ॥ ७ ॥

श्रीशिवचरणनिषेवणचन्द्रशिखामणियतिवरगीतं
श्रीगिरिजाविरहक्रमवर्णनमुदयतु विनयसमेतं
शिव विरहकृशा तव गौरी ॥ ८ ॥

श्लोकः
आवासमन्दिरमिदं मनुते मृडानी घोराटवीसदृशमाप्तसखीजनेन ।
ना भाषणानि तनुते नलिनायताक्षी देव त्वया विरहिता हरिणाङ्कमौले ॥

॥ नवमाष्टपदी ॥

बिलहरिरागेण त्रिपुटतालेन गीयते
(स्तनविनिहत इतिवत्)
हिमकरमणिमयदामनिकाय कलयति वह्निशिखामुरसीयं
शैलजा शिव शैलजा विरहे तव शङ्कर शैलजा ॥ १ ॥

वपुषि पतितघनहिमकरपूरं सन्तनुते हृदि दिवि दुरितारं शैलजा ॥ २ ॥

उरसि निहितमृदु विततमृणालं पश्यति सपदि विलसदळिनीलं शैलजा ॥ ३ ॥

सहचरयुवतिषु नयनमनीलं नमितमुखी वितनोति विशालं शैलजा ॥ ४ ॥

रुष्यति खिद्यति मुहुरनिदानं न प्रतिवक्ति सखीमपि दीनं शैलजा ॥ ५ ॥

शिव इति शिव इति वदति सकामं पश्यति पशुरिव किमपि ललामं शैलजा ॥ ६ ॥

सुरतरुविविधफलामृतसारं पश्यति विषमिव भृशमतिघोरं शैलजा ॥ ७ ॥

यतिवरचन्द्रशिखामणिगीतं सुखयतु साधुजनं शुभगीतं शैलजा ॥ ८ ॥

श्लोकः
त्वद्भावनैकरसिकां त्वदधीनवृत्तिं
त्वन्नामसंस्मरणसंयुतचित्तवृत्तिम् ।
बालामिमां विरहिणीं कृपणैकबन्धो
नोपेक्षसे यदि तदा तव शङ्कराख्या ॥ २३ ॥

वस्तूनि निस्तुलगुणानि निराकृतानि
कस्तूरिकारुचिरचित्रकपत्रजातम् ।
ईदृग्विधं विरहिणी तनुते मृडानी
तामाद्रियस्व करुणाभरितैरपाङ्गैः ॥ २४ ॥

॥ पञ्चमः सर्गः ॥
श्लोकः
एकाम्रमूलविलसन्नवमञ्जरीक
श्रीमाधवीरुचिरकुञ्जगृहेवसामि ।
तामानयानुनय मद्वचनेन गौरीमित्थं
शिवेन पुनराह सखी नियुक्ता ॥

॥ दशमाष्टपदी ॥

आनन्दभैरवीरागेण आदितालेन गीयते
(वहति मलयसमीरे इतिवत्)
जयति मदननृपाले शिवे कुपितपथिक जालं
भ्रमरमिथुन जाले शिवे पिबति मधु सलीलं
विरहरुजा पुरवैरी परिखिद्यति गौरी शिवविरहरुजा ॥ १ ॥

मलयमरुति वलमाने शिवे विरह विघटनाय
सति च मधुपगाने शिवे सरसविहरणाय शिव विरहरुजा ॥ २ ॥

कुसुमभरितसाले शिवे विततसुमधुकाले
कृपणविरहिजाले शिवे कितवहृदनुकूले शिवविरहरुजा ॥ ३ ॥

मदनविजयनिगमं शिवे जपति पिकसमूहे
चतुरकितवसङ्ग (शिवे) कुटिलरवदुरूहे शिवविरहरुजा ॥ ४ ॥

कुसुमरजसि भरिते शिवे कितवमृदुळमरुता
दिशि च विदिशि वितते शिवे विरहिवपुषि चरता शिवविरहरुजा ॥ ५ ॥

विमलतुहिनकिरणे शिवे विकिरति करजालं
विहृतिविरतिहरणे शिवे वियति दिशि विशालं शिवविरहरुजा ॥ ६ ॥

मृदुलकुसुमशयने शिवे वपुषि विरहदूने
भ्रमति लुठति दीने शिवे सुहितशरणहीने शिवविरहरुजा ॥ ७ ॥

जयति गिरिशमतिना शिवे गिरिशविरहकथनं
चन्द्रमकुटयतिना शिवे निखिलकलुषमथनं शिवविरहरुजा ॥ ८ ॥

श्लोकः
यत्रत्वामनुरञ्जयन्नतितरामारब्धकामागमं
व्यापारैरचलाधिराजतनये केलीविशेषैर्युतः ।
तत्र त्वामनुचिन्तयन्नथ भवन्नामैकतन्त्रं जपन्
भूयस्तत्परितम्भसम्भ्रमसुखं प्राणेश्वरः काङ्क्षति ॥ २६ ॥

॥ एकादशाष्टपदी ॥

केदारगौळरागेण आदितालेन गीयते
(रतिसुखसारे गतमभिसारे इतिवत्)
हिमगिरितनये गुरुतरविनये नियुतमदनशुभरूपं
निटिलनयनमनुरञ्जय सति तव विरहजनितघनतापम् ।
मलयजपवने कम्पानुवने वसति सुदति पुरवैरी
युवतिहृदयमदमर्दनकुशली सम्भृत केलिविहारी । मलयजपवने ॥ १ ॥

वद मृदु दयिते मम हृदि नियते बहिरिव चरसि समीपं
वदति मुहुर्मुहुरिति हर मामकदेहमदनघनतापम् । मलयजपवने ॥ २ ॥

उरुघन सारं हिमजल पूरं वपुषि पतितमतिघोरं
सपदि न मृष्यति शपति मनोभवमतिमृदुमलय समीरम् ।
मलयजपवने ॥ ३ ॥

विलिखति चित्रं तव च विचित्रं पश्यति सपदि समोदं
वदति झटिति बहु मामिति शम्बररिपुरतिकलयति खेदम् ।
मलयजपवने ॥ ४ ॥

अर्पयनीलं मयि धृतलीलं नयनकुसुममतिलोलं
विरहतरुणि विरहातुरमनुभज मामिह (ति) विलपति सा (सोऽ) लम् ।
मलयजपवने ॥ ५ ॥

लसदपराधं मनसिजबाधं विमृश विनेतुमुपायं
गुरुतरतुङ्गपयोधरदुर्गमपानय हरमनपायम् । मलयजपवने ॥ ६ ॥

अतिधृतमाने परभृतगाने किञ्चिदुदञ्चय गानं
जहि जहि मानमनूनगुणै रमयाशु विरहचिरदीनम् । मलयजपवने ॥ ७ ॥

इति शिवविरहं घनतरमोहं भणति नियमिजनधीरे
चन्द्रशिखामणिनामनि कुशलमुपनय गजवरचीरे । मलयजपवने ॥ ८ ॥

श्लोकः
विमल सलिलोदञ्चत्कम्पासरोरुहधोरणी-
परिमलरजः पालीसङ्क्रान्तमन्दसमीरणे ।
वितपति वियद्गङ्गामङ्गीचकार शिरः स्थितां
तव हि विरहाक्रान्तः कान्तः नतोऽपि न वेदितः ॥ २७ ॥

अनुभवति मृगाक्षी त्वद्वियोगक्षणानां
लवमिव युगकल्पं स्वल्पमात्मापराधम् ।
त्वयि विहितमनल्पं मन्यमानः कथञ्चित्
नयति समयमेनं देवि तस्मिन्प्रसीद ॥ २८ ॥

इति सहचरीवाणीमेणाङ्कमौळिमनोभव-
व्यथनकथनीमेनामाकर्ण्य कर्णसुधाझरीम् ।
सपदि मुदिता विन्यस्यन्ती पदानि शनैः शनैः
जयति जगतां माता नेतुः प्रविश्य लतागृहम् ॥ २९ ॥

सा दक्षदेवनविहारजयानुषङ्गलीलाहवे भवति शैलजया शिवस्य ।
चेतः प्रसादमनयोस्तरसा विधाय देव्या कृतं कथयति स्म सखी रहस्यम् ॥ ३० ॥

॥ द्वादशाष्टपदी ॥

शङ्कराभरणरागेण त्रिपुटतालेन गीयते
(पश्यति दिशि दिशि इतिवत्)
कलयति कलयति मनसि चरन्तं
कुचकलशस्पृशमयति भवन्तम् ।
पाहि विभो शिव पाहि विभो
निवसति गौरी केळिवने पाहि विभो ॥ १ ॥

जपति जपति तव नाम सुमन्त्रं
प्रति मुहुरुदितसुमायुधतन्त्रं पाहि ॥ २ ॥

उपचितकुसुमसुदामवहन्ती
भवदनुचिन्तनमाकलयन्ती पाहि ॥ ३ ॥

मलयजरजसि निराकृतरागा
वपुषि भसित धृतिसंयतयोगा पाहि ॥ ४ ॥

परिहृतवेणि जटाकच भारा
निजपतिघटकजनाशयधारा पाहि ॥ ५ ॥

अविधृतमणिमुकुटादिललामा
बिसवलयादिविधारणकामा पाहि ॥ ६ ॥

मुहुरवलोकित किसलयशयना
बहिरुपसङ्गत सुललित नयना पाहि ॥ ७ ॥

इति शिव भजनगुणेन विभान्तं
चन्द्रशिखामणिना शुभगीतम् ॥ पाहि ॥ ८ ॥

श्लोकः
सा वीक्षते सहचरीं मदनेन लज्जा-
भारेण नोत्तरवचो वदति प्रगल्भा ।
व्याधून्वति श्वसितकोष्णसमीरणेन
तुङ्गस्तनोत्तरपटं गिरिजा वियुक्ता ॥ ३१ ॥

॥ षष्ठः सर्गः ॥
श्लोकः
अथ विरहिणीमर्मच्छेदानुसम्भृतपातक-
श्रित इव निशानाथः सङ्क्रान्तनीलगुणान्तरः ।
किरणनिकरैरञ्चत्कम्पासरित्तटरम्यभू-
वलयमभितो व्याप्त्या विभ्राजयन्परिजृम्भते ॥ ३२ ॥

विकिरति निजकरजालं हिमकरबिम्बेऽपि नागते कान्ते ।
अकृतकमनीयरूपा स्वात्मगतं किमपि वदति गिरिकन्या ॥ ३३ ॥

॥ त्रयोदशाष्टपदी ॥

आहिरिरागेण झम्पतालेन गीयते
(कथितसमयेऽपि इतिवत्)
सुचिरविरहापनय सुकृतभिकामितं
सफलयति किमिह विधिरुत न विभवामितं
कामिनी किमिह कलये सहचरीवञ्चिताहं कामिनी ॥ १ ॥

यदनुभजनेन मम सुखमखिलमायतं
तमनुकलये किमिह नयनपथमागतं कामिनी ॥ २ ॥

येन मलयजरेणुनिकरमिदमीरितं
न च वहति कुचयुगलमुरु तदवधीरितुं कामिनी ॥ ३ ॥

यच्चरणपरिचरणमखिलफलदायकं
न स्पृशति मनसि मम हा तदुपनायकं कामिनी ॥ ४ ॥

निगमशिरसि स्फुरति यतिमनसि यत्पदम् ।
विततसुखदं तदपि हृदि न मे किमिदं कामिनी ॥ ५ ॥

विरहसमयेषु किल हृदि यदनुचिन्तनम् ।
न स भजति नयनपथमखिलभय कृन्तनं कामिनी ॥ ६ ॥

कुचयुगलमभिमृशति स यदि रतसूचितम् ।
सफलमिह निखिलगुणसहितमपि जीवितं कामिनी ॥ ७ ॥

नियमधनविधुमौळिफणितमिदमञ्चितम् ।
बहुजनिषु कलुषभयमपनयतु सञ्चितं कामिनी ॥ ८ ॥

श्लोकः
आजग्मुषीं सहचरीं हरमन्तरेण
चिन्ताविजृम्भितविषादभरेण दीना ।
आलोक्य लोकजननी हृदि सन्दिहाना
कान्तं कयाभिरमितं निजगाद वाक्यम् ॥ ३४ ॥

॥ चतुर्दशाष्टपदी ॥

सारङ्गरागेण त्रिपुटतालेन गीयते
(स्मरसमरोचित इतिवत्)
कुसुमशराहवसमुचितरूपा प्रियपरिरम्भणपरिहृततापा
कापि पुररिपुणा रमयति हृदयममितगुणा कापि ॥ १ ॥

घनतरकुचयुगमृगमदलेपा
दयितविहितरतिनव्यसुलापा ॥ कापि ॥ २ ॥

रमणरचितकटपत्रविशेषा
उरसिलुलितमणिहारविभूषा ॥ कापि ॥ ३ ॥

दयितनिपीतसुधाधरसीमा
गलितवसनकटिपरिहृतदामा ॥ कापि ॥ ४ ॥

अधिगतमृदुतरकिसलयशयना
दरपरिमीलितचालितनयना ॥ कापि ॥ ५ ॥

विहितमधुररतिकूजितभेदा
दृढपरिरम्भणहतमेति भेदा ॥ कापि ॥ ६ ॥

महित महोरसि सरभसपतिता
लुलितकुसुमकुटिलालकमुदिता ॥ कापि ॥ ७ ॥

चन्द्रशिखामणियतिवरभणितम् ।
सुखयतु साधुजनं शिवचरितम् ॥ कापि ॥ ८ ॥

॥ सप्तमः सर्गः ॥
श्लोकः
चकोराणां प्रीतिं कलयसि मयूखैर्निजकला-
प्रदानैर्देवानमपि दयितभाजां मृगदृशाम् ।
न कोकानां राकाहिमकिरण मादृग्विरहिणी-
जनानां युक्तं ते किमिदमसमं हन्त चरितम् ॥ ३५ ॥

गङ्गामङ्गनिषङ्गिपङ्कजरजोगन्धावहामङ्गनां
आश्लिष्यन्निभृतं निरङ्कुशरहः केळीविशेषैरलम् ।
विभ्रान्तः किमदभ्ररागभरितस्तस्यामुत स्यादयं
कान्तोऽश्रान्तमनङ्गनागविहतो नाभ्याशमभ्यागतः ॥ ३६ ॥

सन्तापयन्नखिलगात्रममित्रभावात्
सन्दृश्यते जडधियामिह शीतभानुः ।
दोषाकरो वपुषि सङ्गतराजयक्ष्मा
घोराकृतिर्हि शिवदूति निशाचराणाम् ॥ ३७ ॥

॥ पञ्चदशाष्टपदी ॥

सावेरिरागेण आदितालेन गीयते
(समुदितवदने इतिवत्)
विरहितशरणे रमणीचरणे विजितारुणपङ्कजे
अरुणिमरुचिरं कलयति सुचिरं मतिमिव वपुषि निजे
रमते कम्पामहितवने विजयी पुरारिजने ॥ रमते ॥ १ ॥

अलिकुलवलिते परिमळललिते युवतिकुटिलालके
कलयति कुसुमं विलसितसुषुमं सुमशरपरिपालके ॥ रमते ॥ २ ॥

कुचगिरियुगले निजमतिनिगले मृगमदरचनाकरे
मणिसरनिकरं विलसितमुकुरं घटयति सुमनोहरे ॥ रमते ॥ ३ ॥

विलसितरदने तरुणीवदने किसलयरुचिराधरे
रचयति पत्रं मकरविचित्रं स्मितरुचिपरिभासुरे ॥ रमते ॥ ४ ॥

कटितटभागे मनसिजयोगे विगळितकनकाम्बरे
मणिमयरशनं रविरचिवसनं घटयति तुहिनकरे ॥ रमते ॥ ५ ॥

अधरसुधाळिं रुचिररदालिं पिबति सुमुखशङ्करे
विदधति मधुरं हसति च विधुरं रतिनिधिनिहितादरे ॥ रमते ॥ ६ ॥

मृदुलसमीरे वलति गभीरे विलसति तुहिनकरे
उदितमनोजं विकसदुरोजं शिवरतिविहितादरे ॥ रमते ॥ ७ ॥

इति रसवचने शिवनति रचने पुरहरभजनादरे
बहुजनिकलुषं निरसतु परुषं यतिवरविधुशेखरे ॥ रमते ॥ ८ ॥

श्लोकः
आयातवानिह न खेदपरानुषङ्ग-
वाञ्छाभरेण विवशस्तरुणेन्दुमौलिः ।
स्वच्छ्न्दमेव रमतां तव कोऽत्र दोषः
पश्याचिरेण दयितं मदुपाश्रयस्थम् ॥ ३८ ॥

॥ अष्टमः सर्गः ॥
श्लोकः
मत्प्राणनेतुरसहायरसालमूल-
लीलागृहस्य मयि चेदनुरागबन्धः ।
अन्याकथानुभविनः प्रणयानुबन्धो
दूति प्रसीदति ममैष महानुभावः ॥

॥ षोडशाष्टपदी ॥

पुन्नागवराली रागेण आदितालेन गीयते
(अनिलतरलकुवलयनयनेन इतिवत्)
अरुणकमलशुभतरचरणेन सपदि गता न हि भवतरणेन ।
या विहृता पुरवैरिणा ॥ १ ॥

स्मितरुचिहिमकरशुभवदनेन निहितगुणा विलसितसदनेन ।
या विहृता पुरवैरिणा ॥ २ ॥

सरसवचनजितकुसुमरसेन हृदि विनिहितरतिकृतरभसेन ।
या विहृता पुरवैरिणा ॥ ३ ॥

विहित विविधकुसुमशरविहृते नानागतरसा नयगुण विहितेन ।
या विहृता पुरवैरिणा ॥ ४ ॥

उदितजलजरुचिरगळेन स्फुटितमना न युवतिनिगळेन ।
या विहृता पुरवैरिणा ॥ ५ ॥

कनकरुचिरसुजटापटलेनानुहतसुखासतिलकनिटिलेन ।
या विहृता पुरवैरिणा ॥ ६ ॥

निखिलयुवतिमदनोदयनेन ज्वरितमाना न विरहदहनेन ।
या विहृता पुरवैरिणा ॥ ७ ॥

तुहिनकिरणधरयतिरचनेन सुखयतु मां शिवहितवचनेन ।
या विहृता पुरवैरिणा ॥ ८ ॥

श्लोकः
अयि मलयसमीर क्रूर भावोरगाणां
श्वसितजनित किं ते मादृशीहिंसनेन ।
क्षणमिव सहकारादीशगात्रानुषङ्ग-
उपहृतपरिमलात्मा सन्निधेहि प्रसन्नः ॥ ४० ॥

॥ नवमः सर्गः ॥
श्लोकः
इत्थं रुषा सहचरीं परुषं वदन्ती
शैलाधिराजतनुजा तनुजातकार्श्या ।
नीत्वा कथं कथमपि क्षणदां महेशः
मागः प्रशान्ति विनतं कुटिलं बभाषे ॥ ४१ ॥

॥ सप्तदशाष्टपदी ॥

आरभीरागेण त्रिपुटतालेन गीयते
(रजनिजनितगुरु इतिवत्)
चतुरयुवतिसुरतादर जागरितारुणमधृतविलासं
निटिलनयन नयनद्वितयं तव कथयति तदभिनिवेशम् ।
पाहि तामिह फाललोचन या तव दिशति विहारं
गरळमिलितधवलामृतमिव हरमागमवचनमसारं पाहि ॥

गुरुतरकुचपरिरम्भणसम्भृतकुङ्कुमपङ्किलहारं
स्मरति विशालमुरो विशदं तव रतिरभसादनुरागं पाहि ॥ २ ॥

रतिपतिसमरविनिर्मित निशितनखक्षतचिह्नितरेखं
वपुरिदमळिकविलोचन लसदिव रतिभरकृतजयरेखं पाहि ॥ ३ ॥

रदनवसनमरुणमिदं तव पुरहर भजति विरागं
विगलितहिमकरशकलमुदञ्चितदर्शितरतिभरवेगं पाहि ॥ ४ ॥

युवतिपदस्थितयावकरसपरिचिन्तितरतिकमनीयं
विलसति वपुरिदमलघुबहिर्गतमयति विरागममेयं पाहि ॥ ५ ॥

युवतिकृतव्रणमधरगतं तव कलयति मम हृदि रोषं
प्रियवचनावसरेऽपि मया सह स्फुटयति तत्परितोषं पाहि ॥ ६ ॥

सुरतरुसुमदामनिकायनिबद्धजटावलिवलयमुदारं
कितवमनोभवसङ्गरशिथिलितमनुकथयति सुविहारं पाहि ॥ ७ ॥

इति हिमगिरिकुलदीपिकया कृतशिवपरिवदनविधानं
सुखयतु बुधजनमीशनिषेवणयतिवरविधुशेखरगानं पाहि ॥ ८ ॥

श्लोकः
ईदृग्विधानि सुबहूनि तव प्रियायां
गाढानुरागकृतसङ्गमलाञ्छितानि ।
साक्षदवेक्षितवतीमिह मामुपेत्य
किं भाषसे कितवशेखर चन्द्रमौळे ॥ ४२

॥ दशमः सर्गः ॥
श्लोकः
तामुद्यतप्रसवबाणविकारखिन्नां
सञ्चिन्त्यमानशशिमौलिचरित्रलीलाम् ।
बालां तुषारगिरिजां रतिकेलिभिन्नां
आळिः प्रियाथ कलहान्तरितामुवाच ॥ ४३ ॥

॥ अष्टादशाष्टपदी ॥

यदुकुलकाम्भोजिरागेण आदितालेन गीयते
(हरिरभिसरति इतिवत्)
पुररिपुरभिरतिमति हृदि तनुते
भवदुपगूहनमिह बहु मनुते ।
शङ्करे हे शङ्करि मा भज
मानिनि परिमानमुमे शङ्करे ॥ १ ॥

मृगमदरसमय गुरुकुचयुगले
कलयति पुररिपुरथ मति निगले ॥ शङ्करे ॥ २ ॥

सुचिरविरहभवमपहर कलुषं
भवदधरामृतमुपहर निमिषं ॥ शङ्करे ॥ ३ ॥

सरस निटिलकृतचित्रकरुचिरं
तव वदनं स च कलयति सुचिरं ॥ शङ्करे ॥ ४ ॥

विभुरयमेष्यति शुभतरमनसा
तदुरसि कुचयुगमुपकुरु सहसा ॥ शङ्करे ॥ ५ ॥

सकुसुमनिकरमुदञ्चय चिकुरं
सुदति विलोकय मणिमय मुकुरं ॥ शङ्करे ॥ ६ ॥

श्रृणु सखि शुभदति मम हितवचनं
घटय जघनमपि विगलितरशनं ॥ शङ्करे ॥ ७ ॥

श्रीविधुशेखरयतिवरफणितं
सुखयतु साधुजनं शिवचरितं ॥ शङ्करे ॥ ८ ॥

महादेवे तस्मिन्प्रणमति निजागः शमयितुं
तदीयं मूर्धानं प्रहरसि पदाभ्यां गिरिसुते ।
स एष क्रुद्धश्चेत्तुहिनकिरणं स्थापयति चेत्
मृदून्यङ्गान्यङ्गारक इव तनोत्येष पवनः ॥ ४४ ॥

॥ एकादशः सर्गः ॥
इत्थं प्रियां सहचरीं गिरमुद्गिरन्तीं
चिन्ताभरेण चिरमीक्षितुमप्यधीरा ।
गौरी कथञ्चिदभिमानवती ददर्श
कान्तं प्रियानुनयवाक्य मुदीरयन्तम् ॥ ४५ ॥

बाले कुलाचलकुमारि विमुञ्च रोषं
दोषं च मय्यधिगतं हृदये न कुर्याः ।
शक्ष्यामि नैव भवितुं भवतीं विनाहं
वक्ष्यामि किं तव पुरः प्रियमन्यदस्मात् ॥ ४६ ॥

॥ एकोनविंशाष्टपदी ॥

मुखारि रागेण झम्पतालेन गीयते
(वदसि यदि किञ्चिदपि इतिवत्)
भजसि यदि मयि रोषमरुणवारिरुहाक्षि
किमिह मम शरणमभिजातं
शरणमुपयायतवति कलुषपरिभावनं
न वरमिति सति सुजनगीतं शिवे शैलकन्ये
पञ्चशरतपनमिह जातं
हरकमलशीतलं सरसनयनाञ्चलं
मयि कलय रतिषु कमनीयं शिवे शैलकन्ये ॥ १ ॥

स्पृशसि यदि वपुररुणकमलसमपाणिना
न स्पृशसि तपनमनिवारं
दरहसितचन्द्रकरनिकरमनुषञ्जयसि
यदि मम च हृदयमतिधीरं शिवे शैलकन्ये ॥ २ ॥

कुसुमदामचयेन मम जटावलिजूटनिचयमयि सुदति सविलासं
सपदि कलयामि वलयाकृतिसरोजवनसुरसरितमुपहसितभासम्
शिवे शैलकन्ये ॥ ३ ॥

अमलमणिहारनिकरेण परिभूषयसि
पृथुल कुचयुगल मतिभारम् ।
तुहिनगरिशिखरानुगळितसुरनिम्नगा
सुगळसमभावसुगभीरम् शिवे शैलकन्ये ॥ ४ ॥

विकसदसिताम्बुरुहविमलनयना-
ञ्चलैरुपचरसि विरहपरिदूनम् ।
सफलमिह जीवितं मम सुदति कोपने
विसृज मयि सफलमतिमानम् शिवे शैलकन्ये ॥ ५ ॥

भवदधर मधु वितर विषमशरविकृति-
हरमयि वितर रतिनियतभानं
स्फुयमदपराधशतमगणनीयमिह
विमृश भवदनुसृतिविधानं शिवे शैलकन्ये ॥ ६ ॥

कुपितहृदयासि मयि कलय भुजबन्धने
कुरु निशितरदनपरिपातं
उचितमिदमखिलं तु नायिके सुदति मम
शिक्षणं स्वकुचगिरिपातं शिवे शैलकन्ये ॥ ७ ॥

इति विविधवचनमपि चतुरपुरवैरिणा
हिमशिखरिजनुषमभिरामं
शिवभजननियतमतियतिचन्द्रमौलिना
फणितमपि जयतु भुवि कामं शिवे शैलकन्ये ॥ ८ ॥

श्लोकः
सुचिर विरहाक्रान्तं विभ्रान्तचित्तमितस्ततः
स्मरपरवशं दीनं नोपेक्षसे यदि मां प्रिये ।
अहमिह चिरं जीवन्भावत्कसेवनमाद्रिये
यदपकरणं सर्वं क्षन्तव्यमद्रिकुमारिके ॥ ४७ ॥

॥ द्वादशः सर्गः ॥
श्लोकः
इति विरहितामेनां चेतः प्रसादवतीं शिवां
अनुनयगिरां गुम्फैः सम्भावयन्निजपाणिना ।
झटिति घटयन्मन्दस्मेरस्तदीयकराम्बुजं
हिमकरकलामौलिः संप्राप केलिलतागृहम् ॥ ४८ ॥

संप्राप्य केळीगृहमिन्दुमौलिः इन्दीवराक्षीमनुवीक्षमाणः ।
जहौ रहः केलिकुतूहलेन वियोगजार्तिं पुनराबभाषे ॥ ४९ ॥

॥ विंशाष्टपदी ॥

घण्टारागेण झम्पतालेन गीयते
(मञ्जुतरकुञ्जतल इतिवत्)
पृथुलतरललितकुचयुगलमयि ते
मृगमदरसेन कलयामि दयिते ।
रमय बाले भवदनुगमेनं ॥ रमय बाले ॥ १ ॥

विधुशकलरुचिरमिदमलिकमयि ते
शुभतिलकमभिलसतु केलिनियते ॥ रमय बाले ॥ २ ॥

इह विहर तरुणि नव कुसुमशयने
भवदधरमधु वितर मकरनयने ॥ रमय बाले ॥ ३ ॥

अयि सुचिरविरहरुजमपहर शिवे
सरसमभिलप रमणि परभृतरवे ॥ रमय बाले ॥ ४ ॥

कलय मलयजपङ्कमुरसि मम ते
कठिनकुचयुगमतनु घटय ललिते ॥ रमय बाले ॥ ५ ॥

इदममरतरुकुसुमनिकरमयि ते
घनचिकुरमुपचरतु सपदि वनिते ॥ रमय बाले ॥ ६ ॥

दरहसितविधुकरमुदञ्चय मनो-
भवतपनमपनुदतु विलसितघने ॥ रमय बाले ॥ ७ ॥

शिवचरणपरिचरणयतविचारे
फणति हिमकरमौळिनियमिधीरे ॥ रमय बाले ॥ ८ ॥

श्लोकः
ईदृग्विधैश्चटुलचाटुवचोविलासैः
गाढोपगूहनमुखाम्बुजचुम्भनाद्यैः ।
आह्लादयन् गिरिसुतामधिकाञ्चि नित्यं
एकाम्रमूलवसतिर्जयति प्रसन्नः ॥ ५० ॥

विद्याविनीतजयदेवकवेरुदार-
गीतिप्रबन्धसरणिप्रणिधानमात्रात् ।
एषा मया विरचिता शिवगीतिमाला
मोदं करोतु शिवयोः पदयोजनीया ॥ ५१ ॥

अव्यक्तवर्णमुदितेन यथार्भकस्य
वाक्येन मोदभरितं हृदयं हि पित्रोः ।
एकाम्रनाथ भवदङ्घ्रिसमर्पितेयं
मोदं करोतु भवतः शिवगीतिमाला ॥ ५२ ॥

गुणानुस्यूतिरहिता दोषग्रन्थिविदूषिता ।
तथापि शिवगीतिर्नो मालिका चित्रमीदृशी ॥ ५३ ॥

ॐ नमः शिवायै च नमः शिवाय

इति श्रीचन्द्रशेखरेन्द्रसरस्वतीविरचिता शिवगीतिमाला
अथवा शिवाष्टपदी समाप्ता ।

॥ शुभमस्तु ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

AD

Ad Code